वांछित मन्त्र चुनें

यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया॑ स॒हाहुः । यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

अंग्रेज़ी लिप्यंतरण

yasyeme himavanto mahitvā yasya samudraṁ rasayā sahāhuḥ | yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣā vidhema ||

पद पाठ

यस्य॑ । इ॒मे । हि॒मऽव॑न्तः । म॒हि॒ऽत्वा । यस्य॑ । स॒मु॒द्रम् । र॒सया॑ । स॒ह । आ॒हुः॒ । यस्य॑ । इ॒माः । प्र॒ऽदिशः॑ । यस्य॑ । बा॒हू इति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥ १०.१२१.४

ऋग्वेद » मण्डल:10» सूक्त:121» मन्त्र:4 | अष्टक:8» अध्याय:7» वर्ग:3» मन्त्र:4 | मण्डल:10» अनुवाक:10» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इमे हिमवन्तः) ये हिमालय पर्वतप्रदेश (यस्य) जिसके (महित्वा) महत्त्व को (आहुः) वर्णन करते हैं, (रसया सह समुद्रम्) नदी के साथ समुद्र भी जिसके महत्त्व का वर्णन करते हुए से लगते हैं, (यस्य) जिसकी (इमाः प्रदिशः) ये सब चारों ओर की दिशाएँ (बाहू) बाहू जैसी-फैली हुयी हैं (कस्मै....) पूर्ववत् ॥४॥
भावार्थभाषाः - नदियों के साथ समुद्र, हिमालय पर्वत और समस्त दिशाएँ परमात्मा के महत्त्व को दर्शा रही हैं, उस ऐसे सुखरूप प्रजापति के लिये उपहाररूप में अपनी आत्मा को समर्पित करना चाहिये ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इमे हिमवन्तः) एते हिमालयाः पर्वताः पर्वतप्रदेशाः (यस्य महित्वा-आहुः) यस्य-महत्त्वं वर्णयन्तीव (रसया सह समुद्रम्) नद्या सह समुद्रः “समुद्रं नपुंसकं छान्दसम्” नदीसमुद्राः-यस्य महत्त्वं वर्णयन्तीव (यस्य-इमाः-प्रदिशः-बाहू) यस्येमाः प्रदिशः खलु बहू इवेति (कस्मै....) पूर्ववत् ॥४॥